मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ५

संहिता

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।
नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥

पदपाठः

स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ ।
नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥

सायणभाष्यम्

मनसावृणानाः प्रार्थ्यमानाः ऋतेनउदकेन विश्वंइन्वन्तः प्रीणयन्तः देवाः सप्तहोत्राणि होतॄ णांवषट् कर्तॄणांकर्माणिप्रतियन् प्रतिगच्छन्ति अतःपरंद्वारंस्तुतिः नृपेशसः नररूपाः विदथेषुयागे षुजाताः उत्पन्नाः पूर्वीर्वह्व्यः विग्रहवत्योयज्ञद्वाराभिमानिन्योदेवताः इममस्मदीयंयज्ञं विचरन्त विचरन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२