मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ६

संहिता

आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।
यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥

पदपाठः

आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे ।
यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥

सायणभाष्यम्

भन्दमाने स्तूयमाने उपाकेपरस्परं संगते उषसानक्ता अन्योन्यापेक्षयाद्विवचनं नक्तोषसौरा त्र्यहनी आ आगच्छतां उतअपिच विरूपेपृथग्रूपे तन्वाप्रकाशरूपेणशरीरेण स्मयेते प्रकाशेते मित्रोवरुणः उतवाअपिच इन्द्रः मरुत्वांश्च नोस्मान् यथाजुजोषत् यथासेवेत तथा महोभिस्ते जोभिर्युक्तेन्द्र मेद्यावापृथिव्यौकुरुताम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३