मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ७

संहिता

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

पदपाठः

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥

सायणभाष्यम्

दैव्यादिव्यौ प्रथमाप्रथमौमुख्यौ होतारा अह्वातारौ अग्नी न्यृंजे प्रसाधयामि ऋतमुद- कंशंसन्तः आशंसमानाः सप्तपृक्षासःपृक्शमन्नं तद्वन्तऋत्विजः तमग्निंस्वधयासोमेनहविषामदन्ति मादयन्ति व्रतपाः व्रतानांकर्मणांरक्षितारः दीध्यानादीप्यमानाः अथवास्वकर्मभिरग्निंदीपयन्तः ऋत्विजः अनुव्रतं व्रतेषुऋतमित् अग्निमेवमाहुः अग्निमेवऋतभूतमाहुरित्यर्थः एवकारार्थे इच्छब्दः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३