मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ८

संहिता

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।
सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥

पदपाठः

आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळा॑॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।
सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥

सायणभाष्यम्

भारतीभिः भरतस्य सूर्यस्यसंबन्धिनीभिः अद्भिः सजोषाःसंगताभारतीवाक् आगच्छतु देवैर्मनुष्येभिः मनुष्यैश्चसंगताःसत्यः इळाचभूमिश्चआगच्छतु अग्निश्चसारस्वतेभिः सरस्वतिसं बंधिभिः मध्यमस्थानैः सहसरस्वतीमाध्यमिकावाक्च आगच्छतु तिस्रोदेवीः देव्यः वागिळा भारत्यः आगच्छन्तु अर्वागाभिमुख्यं इदंएतत् बर्हिः आसन्दतु आसीदन्तु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३