मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ४, ऋक् ११

संहिता

आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभि॑ः ।
ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥

पदपाठः

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।
ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

सायणभाष्यम्

हेअग्ने अर्वाक् अस्मदभिमुखंसमिधानः समिध्यमानः ज्वालारूपेणदीप्यमानः त्वंआयाहि देवतारूपेणागच्छ कथमितिउच्यते—नोस्माकंयज्ञंइन्द्रेणदेवैश्चतुरेभिः त्वरमाणैःदेवैः सरथंसमान रथं यथातथा आयाहि किंच सुपुत्राअदितिरपिनोबर्हिः आस्तां अध्यास्तां स्वाहा स्वाहाकारेण युक्ताअमृताः नित्यादेवाः मादयन्तां तृप्यन्तु ॥ ११ ॥

प्रत्यग्निरुषसइत्येकादशर्चंपञ्चमंसूक्तं वैश्वामित्रंत्रैष्टुभमाग्नेयं अत्रानुक्रमणिका—प्रत्यग्निरिति । प्रातरनुवाकाश्विनशस्त्रयोरिदमादिसूक्तत्रयस्यविनियोगः सूत्रितंच—प्रत्यग्निरुषसइतित्रीणीति इळामग्नइतिअस्यउक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३