मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् १

संहिता

प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्र॑ः पद॒वीः क॑वी॒नाम् ।
पृ॒थु॒पाजा॑ देव॒यद्भि॒ः समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥

पदपाठः

प्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् ।
पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । सम्ऽइ॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥

सायणभाष्यम्

उषसः चेकितानोजानन् विप्रः मेधावीकवीनां क्रान्तदृशां पदवीः मार्गान् गच्छन् योग्निः प्रत्यबोधिप्रतिबुध्यते पृथुपाजाः पृथुतेजाः देवयद्भिर्देवकामैः समिद्धः सम्यक् दीप्तः सवह्निः तमसः अज्ञानस्यद्वारा आगमनद्वाराणिअपावः अपावृणोतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४