मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ६

संहिता

ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।
स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥

पदपाठः

ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् ।
स॒सस्य॑ । चर्म॑ । घृ॒तऽव॑त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥

सायणभाष्यम्

ऋभुर्महान् विश्वानिसर्वाणिवयुनानि ज्ञातव्यान् पदार्थान् विद्वान् जानन् देवोग्निः ईड्यं स्तुत्यंचारुमनोज्ञंनामजलंचक्रे करोति नामेतिउदकनामसुपाठात् वेर्व्याप्तस्यससस्यस्वपतः शांत- ज्वालस्याप्यग्नेः चर्मरूपंघृतवद्दीप्तिमद्भवति सोग्निः तज्जलमप्रयुच्छन् अप्रमाद्यन् पदंस्थानं र- क्षतिपालयति इदितिपूरणः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५