मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५, ऋक् ९

संहिता

उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।
मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥

पदपाठः

उत् । ऊं॒ इति॑ । स्तु॒तः । स॒म्ऽइधा॑ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म॑न् । दि॒वः । अधि॑ । नाभा॑ । पृ॒थि॒व्याः ।
मि॒त्रः । अ॒ग्निः । ईड्यः॑ । मा॒त॒रिश्वा॑ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा॑य । दे॒वान् ॥

सायणभाष्यम्

उइतिपादपूरणः स्तुतः अस्माभिःस्तुतः समिधासमिन्धनेनयह्वोमहान् अग्निः प्रुथिव्याअधि उत्तरवेद्यां नाभानाभौमध्यप्रदेशे स्थितःसन् दिवःअन्तरिक्षस्य वर्ष्मन् वर्ष्मणिरूपे उदद्यौत् द्योतते मित्रः सर्वेषांमित्रभुतः ईड्यःस्तुत्यः मारिश्वा मातरिअन्तरिक्षे श्वसितिप्राणिति सूर्यरूपेण चेष्टते इतिमातरिश्वा अथवा मातरिअरण्यां श्वसितिनिवसतीतिमातरिश्वा यथाहयास्कः—मातर्य न्तरिक्षेश्वसितिमातर्याश्वनितीतिवा । दूतः देवानांदूतःसन् यजथाय यज्ञायदेवानावक्षत् आवहतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५