मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् १

संहिता

प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यन्त॑ः ।
द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ॥

पदपाठः

प्र । का॒र॒वः॒ । म॒न॒ना । व॒च्यमा॑नाः । दे॒व॒द्रीची॑न् । न॒य॒त॒ । दे॒व॒ऽयन्तः॑ ।
द॒क्षि॒णा॒ऽवाट् । वा॒जिनी॑ । प्राची॑ । ए॒ति॒ । ह॒विः । भर॑न्ती । अ॒ग्नये॑ । घृ॒ताची॑ ॥

सायणभाष्यम्

हेकारवः कर्तारः देवयन्तः देवकामाः यूयंमननामननेनमन्त्रेणवच्यमानाः प्रेर्यमाणाः सन्तः देवद्रीचीं देवानञ्चतींस्रुचंप्रणयत प्रकर्षेणनयत प्रापयत दक्षिणावाट् आहवनीयस्यदक्षिणतः उह्यमानावाजिनीअन्नवती प्राचीप्रागग्राअग्नयेअग्न्यर्थं हविर्भरन्ती हविर्धारयन्ती घृताची घृते नाक्तास्रुक् एतिगच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६