मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् २

संहिता

आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो ।
दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥

पदपाठः

आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः । उ॒त । प्र । रि॒क्थाः॒ । अध॑ । नु । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।
दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता॑म् । ते॒ । वह्न॑यः । स॒प्तऽजि॑ह्वाः ॥

सायणभाष्यम्

हेअग्ने जायमानस्त्वं रोदसीद्यावापृथिव्यौ नुक्षिप्रंआअपृणाः आपूरय उतापिच हेप्रयज्यो प्रयष्टव्य अध अनन्तरं दिवश्चित् दिवश्चअन्तरिक्षात् पृथिव्याश्च महिनामहिम्ना प्ररिक्थाः अतिरिक्तश्चासि अनेनवह्नेरतिशयउक्तः एवंविधस्यतेतव वह्नयः अग्नयः अंशभूताआहवनी यादयः वच्यन्तांप्रेर्यतां किंविधास्तेसप्तजिह्वाः सप्तजिह्वात्मकाः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६