मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ३

संहिता

द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयन्ते॒ दमा॑य ।
यदी॒ विशो॒ मानु॑षीर्देव॒यन्ती॒ः प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥

पदपाठः

द्यौः । च॒ । त्वा॒ । पृ॒थि॒वी । य॒ज्ञिया॑सः । नि । होता॑रम् । सा॒द॒य॒न्ते॒ । दमा॑य ।
यदि॑ । विशः॑ । मानु॑षीः । दे॒व॒ऽयन्तीः॑ । प्रय॑स्वतीः । ईळ॑ते । शु॒क्रम् । अ॒र्चिः ॥

सायणभाष्यम्

द्यौश्चअन्तरिक्षंपृथिवीच यज्ञियासः यज्ञार्हादेवाश्चहोतारं त्वात्वांदमाय दमोयज्ञः तस्मै अर्थं निषादयन्तेउपशमयन्ति यदियदामानुषीः मनोःसंबन्धिन्यः देवयन्तीः देवकामाः प्रयस्वतीः हविष्मत्यः विशःप्रजाः होतारः शुक्रंदीप्तंअर्चिः अर्चिषंईळतेस्तुवन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६