मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ४

संहिता

म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः ।
आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥

पदपाठः

म॒हान् । स॒धऽस्थे॑ । ध्रु॒वः । आ । निऽस॑त्तः । अ॒न्तः । द्यावा॑ । माहि॑ने॒ इति॑ । हर्य॑माणः ।
आस्क्रे॒ इति॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । अ॒जरे॒ इति॑ । अमृ॑क्ते॒ इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । उ॒रु॒ऽगा॒यस्य॑ । धे॒नू इति॑ ॥

सायणभाष्यम्

महान् अधिकोहर्यमाणः यजमानादिभिः काम्यमानः यद्वा यजमानायधनंकामयमानः अग्निः द्यावान्तर्भूम्योर्मध्ये माहिनेमहिम्नायुक्ते सधस्थेस्वकीयेस्थाने ध्रुवःअचलःसन् आनिषत्तः निषण्णो भवति आस्केआक्रमणशीले सपत्नी समानःएकःसूर्यः पतिर्ययोस्तेसपत्न्यौ अजरेजरारहिते अमृते अन्येनाहिंसिते सबर्दुघे सबरित्यम्रुतमुदकं तस्यदोग्ध्र्यौ द्यावापृथिव्यौ उरुगायस्यपृथुगमनस्य अधिकस्तुतेर्वाअग्नेः धेनूप्रीणयित्र्यौभवतः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६