मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ५

संहिता

व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ ।
त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ॥

पदपाठः

व्र॒ता । ते॒ । अ॒ग्ने॒ । म॒ह॒तः । म॒हानि॑ । तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ ।
त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय॑मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

हेअग्ने महतः सर्वोत्कृष्टस्यतेतव व्रताव्रतानि त्वत्संबन्धीनिकर्माणिमहानिमहान्तिभवन्ति तव क्रत्वाक्रतुनाप्रकाशेनरोदसी द्यावापृथिव्यौ आततन्थ विस्तृतवानसि त्वंदूतोअभवःभव हे वृषभ वर्षणशील त्वंजायमानःसन् चर्षणीनांयजमानानां नेतासि फलप्रापकोसि ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६