मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ६

संहिता

ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व ।
अथा व॑ह दे॒वान्दे॑व॒ विश्वा॑न्त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥

पदपाठः

ऋ॒तस्य॑ । वा॒ । के॒शिना॑ । यो॒ग्याभिः॑ । घृ॒त॒ऽस्नुवा॑ । रोहि॑ता । धु॒रि । धि॒ष्व॒ ।
अथ॑ । आ । व॒ह॒ । दे॒वान् । दे॒व॒ । विश्वा॑न् । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ ॥

सायणभाष्यम्

हेदेव केशिना प्रशस्तकेशवन्तौ योग्याभिः योजनसाधनभूताभीरज्जुभिर्युक्तौ घृतस्नुवा घृत मुदकं क्षरन्तौ रोहितारोहितौ अश्वौ ऋतस्ययज्ञस्य वाशब्दश्चार्थे धुरिचधिष्व धेहियोजयेत्यर्थः अथानन्तरंविश्वान् सर्वान् देवान् रथेसमारोप्य आवह हेजातवेदः तान् स्वध्वरा स्वध्वरान् शोभनानध्वरान् कृणुहिकुरु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७