मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ७

संहिता

दि॒वश्चि॒दा ते॑ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।
अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्म॒न्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥

पदपाठः

दि॒वः । चि॒त् । आ । ते॒ । रु॒च॒य॒न्त॒ । रो॒काः । उ॒षः । वि॒ऽभा॒तीः । अनु॑ । भा॒सि॒ । पू॒र्वीः ।
अ॒पः । यत् । अ॒ग्ने॒ । उ॒शध॑क् । वने॑षु । होतुः॑ । म॒न्द्रस्य॑ । प॒नय॑न्त । दे॒वाः ॥

सायणभाष्यम्

हेअग्ने यत् यदा वनेषुअरण्येषु अपःउशधक् कामयमानोदहंश्चवर्तसे तदातेरोकाः त्वदीया दीप्तयः दिवश्चित् सूर्यादपि आरुचयन्त आरोचन्ते विभातीः विशेषेणभातीः प्रकाशमानाः पूर्वीःपुराणीः उषःउषसः अनुभासि मन्द्रस्यस्तुत्यस्य होतुःतवरोकान् देवाःस्तोतारः पनयन्त स्तुवन्ति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७