मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ८

संहिता

उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः ।
ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वा॑ः ॥

पदपाठः

उ॒रौ । वा॒ । ये । अ॒न्तरि॑क्षे । मद॑न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति॑ । दे॒वाः ।
ऊमाः॑ । वा॒ । ये । सु॒ऽहवा॑सः । यज॑त्राः । आ॒ऽये॒मि॒रे । र॒थ्यः॑ । अ॒ग्ने॒ । अश्वाः॑ ॥

सायणभाष्यम्

उरौविस्तीर्णे अन्तरिक्षे येदेवामदंति हृष्यन्ति दिवःसूर्यस्य रोचनेप्रकाशने आलोके ये देवाः सन्ति ऊमाः ऊमसंज्ञकाः पितरः सन्ति यजत्राः यष्टव्यायेदेवाः सुहवासः शोभनाह्वानाः आयेमिरे आयच्छन्ति रथ्यःरथिनः तव ये अश्वाःसन्ति हेअग्ने तैःसर्वैःसार्धं आयाहीतिउत्तरयर्चा संबन्धः वात्रयः पूरणाः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७