मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ९

संहिता

ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वा॑ः ।
पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥

पदपाठः

आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ ।
पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥

सायणभाष्यम्

हेअग्ने एभिः पूर्वोक्तैर्देवगणैःसार्धं सरथंसमानरथं नानारथंवा आत्मानं त्वद्रथेसमारोप्यया ह्यर्वाङ् अस्मदभिमुखमायाहि यतःकारणात् तेअश्वाः विभवः प्रभवः समर्थाः हिःप्रसिद्धौ पत्नी वतः तत्नीभिःसहितान् त्रिंशतंत्रींश्च त्रयस्त्रिंशतंदेवांश्च अनुष्वधं बलार्थं अन्नार्थंवा आवहमादय स्व सोमेनेतिशेषः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७