मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् १०

संहिता

स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः ।
प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥

पदपाठः

सः । होता॑ । यस्य॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । य॒ज्ञम्ऽय॑ज्ञम् । अ॒भि । वृ॒धे । गृ॒णी॒तः ।
प्राची॒ इति॑ । अ॒ध्व॒राऽइ॑व । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । ऋ॒तऽजा॑तस्य । स॒त्ये इति॑ ॥

सायणभाष्यम्

सएवहोताभवति उर्वीविस्तीर्णे रोदसीचित् द्यावापृथिव्यौअपि यस्याग्नेः यज्ञंसर्वं यज्ञं वृधेसमृद्धये अभिगृणीतः प्रशंसतः ऋतजातस्य जातसत्यस्य यस्यहोतुः सुमेके सुरूपे ऋता- वरी उदकवत्यौसत्ये सत्यस्वरूपे प्राचीअनुकूले तस्थातुः तिष्ठतः कथमिव अध्वराविव यज्ञाविव ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७