मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ६, ऋक् ११

संहिता

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

पदपाठः

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

इयंपूर्वंव्याख्याता ॥ ११ ॥

वेदार्थस्यप्रकाशेनतमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेणसायणा- चार्येणविरचितेमाधवीयेवेदार्थप्रकाशेरुक्संहिताभाष्येद्वितीयाष्टकेऽष्टमोध्यायः ॥ ८ ॥

द्वितीयाष्टकःसमाप्तः

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७