मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ५

संहिता

जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति ।
दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥

पदपाठः

जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ ।
दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥

सायणभाष्यम्

वृष्णः कामानां वर्षितुरुरुषस्य रुषा हिंसकाः । तद्रहितस्य । शत्रुराहित्येन रोचमानस्येत्यर्थः । तथाविधस्याग्नेः शेवमाश्रयविषयं सुखं जना जानंति । उत अपि च जानंतस्ते ब्रध्नस्य महतोग्नेः शासन आज्ञायां सर्वे जना रणंति । रमंते । तथा च मंत्रः । म १-६०-२ । अस्य शासुरुभयासः सचंते हविष्मंत तीळा गीः स्तुतिरूपा वाक् गण्या गणनीया पूज्या ते दिवोरुचो द्युलोकस्य रोचकाः सुरुचः शोभनदीप्ययो रोचमाना देदीप्यमाना भवंति ॥ जानंति । ज्ञा अवरोधने । क्र्यादित्वात्तस्य ज्ञा जनोर्जेति जादेशः । प्रत्ययस्वरः । आरुषस्य । रुष रिष हिंसार्थाः । रोशंतीति रुशा हिंसकाः । इगुपधज्ञेति कः । न संति रुषा यस्यासावरुषः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । शेवम् । शीङ् स्वप्ने । इण् शीङ्भ्यां वन्निति वन् नित्स्वरः । शासने शासु अनुशिष्टौ । अस्माद्भावे स्युट् । लिटीति प्रत्ययात्पूर्वस्योदात्तत्त्वं रणंति । निघातः । दिवोरुचः । रुच दीप्तौ । अस्मात्क्विप् । तत्पुरुषे कृति बहुलमिति षष्ठ्या आलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुरुचः । बहुव्रीहौ न ञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । इळा । ईळ स्तुतौ । ह्रस्वश्छांदसः । यथा वाक्यब्दष्ट्वाबंतस्तद्वत् । पित्त्वदनुदात्तत्वे धातुस्वरह् । गण्या । गणसंख्याने । स्वार्थे ण्यंतादचोयत् । यतोऽनाव इत्याद्युदात्तत्वम् । महिना । मनेरिनण् चेति इनण् । णित्त्वादुपधावृद्धिः । व्यत्ययेनाद्युदात्तः । गीः । गॄ शब्दे । अस्मात्क्विप् । ॠत इद्धातोरितीत्वम् । र्वोरुपधाया इति दीर्घः । प्रातिपदिक स्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः