मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ६

संहिता

उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयन्त शू॒षम् ।
उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥

पदपाठः

उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् ।
उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥

सायणभाष्यम्

उतो अपि च महतो महद्भ्यां पितृभ्यां द्यावापृथिवीभ्यां प्रविदा प्रवेदनेनानु घोषमनु घुष्यमाणं शूषं सुखम् । शूषं शुनमिति श्खनामसु पाठात् । तत्सुखं यजमाना अग्निमनयंत । अग्निं प्रपितवंतः । सोऽग्निर्यत्र यजमानेषूक्षा वृष्ट्युत्पादनेनोदकस्य सेक्ताक्तोः । अक्तुशब्दो रात्रमाचष्टे शर्वरी अक्तुरिति तन्नामसु पाठात् आज्यते सिच्यते नीहारेण जगदस्यामिति व्युत्पत्तेश्च । तस्या रात्रेः परिधानं परितो धारकं स्वमात्मियं धामतेजो जरितुः स्तोतुः स्तुतिश्रवणार्थमनु ववक्ष ह । समीपे वहति खलु । सन्निहितं करोतीत्यर्थः । उतो । ऊदिति प्रगृह्यसंज्ञा । एवमादित्वादंतोदात्तः । घोषं घुषिर् शब्दे अस्मात्कर्मणि घञ् । सघूपधगुणः । ङित्स्वरः । महः । अकारतकारयोर्लोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । अनयम्त णीञ् प्रापण इत्यस्य लङि रूपं निघातः । उक्षा । उक्षसेचने । स्वन्नुक्षन्नित्यादिना कनिप्रत्ययांतत्वेनोक्शन् शब्दो निपातितः । व्यत्ययेनांतोदात्तः । ह चादित्वानुदात्तः । यत्र लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अक्तोः । अंजू व्यक्तिगतिम्रक्षणेष्वित्यस्मात् व्याज्यर्तिभ्यः क्तुरिति क्तुः । कित्त्वादनिदितामिति नलोपः । प्रत्ययस्वरः । ववक्ष । वह प्रापणे । छंदसि लुङ् लङ् लिट इति वर्तमाने लिट् । सकारश्छांदसः । तिपो णलादेशः । लितीति प्रत्ययात्पूर्वस्यो दात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः