मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् ८

संहिता

दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदन्ति ।
ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

पदपाठः

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।
ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥

सायणभाष्यम्

दैव्या दैव्यौ देवातारूपौ होतारा होतारौ होमनिष्पादकौ प्रथमा प्रथमौ मुख्याविमं चामुं चाग्नीन्यृन्जे । ऋन्जतिः प्रसाधनकर्मेति यास्कः । मन्त्रद्रष्टा विश्वामित्रोऽहं प्रसाधयामि । सप्त पृक्षासः सप्त होत्रकाः स्वधया सोमेन मदन्ति । ह्यष्यन्ति । ऋतं स्तोत्रं शंसन्तो व्रतपा व्रतस्य यज्ञ कर्मणो रक्षितारो दीध्याना दीप्यमानास्ते होत्रका अनुव्रतं यज्ञे कर्मणि ऋतमित् सत्यमेवाग्निमाहुः । वदन्ति । ऋन्जे । ऋजि भृजी भर्जने । निपोर्वोऽयं धातुः प्रसाधने वर्तते । निघातः । स्वधया स्वं लोकं यजमानस्य दधाति विदधातीति स्वधा सोमः । अतोनुपसर्गे क इति कः । कृदुत्तरपदप्रकृतिस्वरत्वम् । आहुः । ब्रूञ् व्यक्तायां वाचीत्यस्य लटि ब्रुवः पञ्चानामादित आहो ब्रुव इति झेरुसादेशो ब्रुवश्च आहादेशः । निघातः । दीध्यानाः । दीधीङ् दीप्ति देवनयोरित्यस्माच्छानच् । तस्य चित्त्वादंतोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्त्याद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः