मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ७, ऋक् १०

संहिता

पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।
उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देन॒ः सं म॒हे द॑शस्य ॥

पदपाठः

पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।
उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥

सायणभाष्यम्

द्रविणः । द्रवति सततम् गच्छतीति द्रविणः शब्देनाग्निरभिधीयते । द्रविणः सततगमनस्वभाव हे अग्ने पृक्षप्रयजः पृक्षाणि हविर्लक्षणान्यन्नानि प्रकर्षेण यष्टुं प्रक्रम्यते यासूषःसु ताः पृक्षप्रयजः सुवाचः प्रातरनुवाकादिशोभना वाचोवासान्ताः । सुकेतवो वयसां मनुष्याणां च शब्दैः सुप्रज्ञानाः । एवं विधा उषसो रेवत् अस्माकं धनयुक्तं यथा भवति तथोषुः व्युच्छंति । उतो चित् अपि च हे अग्ने पृघिव्या विस्तीर्णाया ज्वालाया महिना महत्त्वेन कृतं संपादितं चित् यत्किंचिदेनः प्राण्युपघातादिलक्षणं पापं महे महते यजमानाय मह्यं मदर्थं संदशस्य । संक्षपय । पृक्षप्रयजः अन्येभ्योऽपि दृश्यंत इतिकर्मणि विच् दृशिग्रहणादधिकृतो भवतीत्युक्तम् । बहुव्रीहित्वात्पूर्वपद प्रकृतिस्वरत्वम् । द्रविणः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन्नितीनप्रत्ययः । गुणावादेशौ । संबुद्धौ सोर्लोपाभावश्छान्दसः आमन्त्रितत्वान्निघातः । सुवाचः । नञ् सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । रेवत् रयिर्धनमस्मिन्विद्यत इति मशुप् । ह्रस्वनुड्भ्यामिति मतुबुदात्तः । छन्दसीर इति वत्वम् । रयेर्मतौ बहुलं छन्दसीति सम्प्रसारारणम् । परपूर्वत्वे गुणः । ऊषुः । उष दाहे । दाहार्थोऽप्ययं धातुरत्र प्रकाशने वर्तते । छन्दसि लुङ्गिति वर्तमाने लिट् । उसि रूपम् । निघातः । पृथिव्याः । प्रथ प्रख्यान इत्यस्मात्प्रथेः षिवन् सम्प्रसारणं चेति षिवन्प्रत्ययः । तत्सन्नियोगेन धातोः सम्प्रसारणम् । षिद्गौरादिभ्यश्चेति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । उदात्तयणो हल्प्र्वादिति विभक्तेरुदात्तत्वम् । दशस्य । निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः