मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् २

संहिता

समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् ।
आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥

पदपाठः

सम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् ।
आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥

सायणभाष्यम्

हे यूप समिद्धस्य दीपमानस्यावहनीयाख्यस्याग्नेः पुरस्तात् प्राच्यान्दिशि श्रयमाणस्तत्र वर्तमानो ब्रह्मान्नम् । ब्रह्मवर्च इत्यन्ननामसु पाठात् । अजरं जरारहितं समृद्धं सुवीरं शोभनापत्ययुक्तं ब्रह्मान्नं वन्वानः प्रयच्छन् अस्मदमतिमस्माकं शत्रुभूतामशनायाम् । अशनाया वै पाप्मामतिरिति श्रवणात् । तादृशं शत्रुमारे दूरे बाधमनोऽपनुदन्स्त्वं महते सौभगाय धनादिसंपत्त्यर्थमुच्छ्रयस्व । उच्छ्रितो भव । उक्तार्थे ब्राह्मणम् । समिद्धस्य श्रयमाणः पुरस्तादिति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमित्याशिषमेवाशास्त आरे अस्मदमतिं बधमान इत्यशनाया वै पाप्मा मतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच्छ्रयस्व महते सौभगायेत्याशिषमेवाशास्ते । ऐ. ब्रा. २-२- । इति समिद्धस्य । ञि इन्धी दीप्तौ । कर्मणि निष्ठायां स्वीदितो निष्ठायामितीट् प्रतिषेधः । सम्यगिद्ध इति गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । श्रयमाणः । श्रिञ् सेवायामित्यस्य लटः शानच् । तस्य लसार्वधातुकस्वरेणानुदात्तत्वे कृते धातुस्वरः शिष्यते । पुरस्तात् । पूर्वशब्दस्य दिक् शब्देभ्यः सप्तमीपंचमीत्यादिना । पा. ५-३-२७ । आस्तातिप्रत्ययः ॥ अस्ताति च । पा. ५-३-४० । इति पूर्वस्य पुरादेशः । प्रत्ययस्वरः । ब्रह्म । नब्विषयस्यानिसन्तस्येत्याद्युदात्तः । वन्वानः । वनु याचने । आत्रायं धातुर्दानार्थे वर्तते । लटः शानच् प्रत्ययः । चित्त्वादन्तोदात्तः । अजरं नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । सुवीरम् । वीरवीरौचेत्युत्तरपदाद्युदात्तत्वम् । आरे । एवमादित्वादन्तोदात्तः । अस्मत् । युष्यसिभ्यां मदिगिति मदिक्प्रत्ययस्वरः । सुपां सुगिति सुपो लुक् मदिक्प्रत्ययस्वरः अमतिम् । तत्पुरुष इति पूर्वपदप्रकृतिस्वरत्वम् । ऊत् निपातत्वेनाद्युदात्तः । श्रयस्व । श्रि ञ् सेवायामित्यस्य लोण्मध्यमैकवचने थास् । थासः स इत्यादेशः । सवाभ्यां वामावित्येकारस्य वकारः । निघातः महते वर्तमाने पृषद्पृशन्महदिति निपातनादण्तोदात्तः । बृहन्मतोरुपस्यंखानमिति विभक्तेरुदात्तत्वम् । सौभागाय । प्राणाभृज्जातिवयोवचनेत्यञ् । हृद्भगसिन्ध्वन्ते पूर्वपदस्य् चेति वृद्धिः । सर्वविधिनां छंदसि विकल्पितत्वादित्युत्तरपदस्य वृद्धिर्नभवति । ञित्स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः