मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ३

संहिता

उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ ।
सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥

पदपाठः

उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म॑न् । पृ॒थि॒व्याः । अधि॑ ।
सुऽमि॑ती । मी॒यमा॑नः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥

सायणभाष्यम्

हे वनस्पते युप पृथिव्या अधि पृथिव्यां वर्ष्मन् उत्कृष्टे देवयजनाख्ये देश उच्छ्रयस्व । उच्छ्रितो भव । सुमिती शोभमानया बुद्ध्या अथवा शोभनेन परिमाणेन मीयमान इयत्तया परिच्छिद्यमानस्त्वं यज्ञवाहसे यज्ञनिर्वाहकाय यजमानाय वर्चो धाः । अन्नम् धेहि । अयमेवार्थो ब्राह्मणेन दर्शितः । उच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणायाभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धम् । वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते । ऐ. ब्रा. २-२ ॥ वनस्पते । अपादादित्वादाष्टमिकमनुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । सुमिती । माङ् मान इत्यस्य क्तिनि द्यतिस्यतिमास्थेतीकारादेशः । शोभनया मित्या । तादौ च निति कृत्यताविति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति सवर्णदीर्घः । मीयमानः । माङ् मान इत्यस्य कर्मणि यक् । घुमास्थेतीत्वम् । प्रत्ययस्वरः । धाः । धाञो लोडर्थे छंदसि लुङ् लुङ्गिति लुङ् । इतश्चेति सिप इकारलोपः । गातिस्थेति सिचो लोपः । बहुलं छंदसीत्यडभावः । निघातः । यज्ञवाहसे यज्ञं वहति प्राप्नोति । वह प्रापण इत्यस्य वहिहाधाञ्भ्याश्चन्दसीत्यसुन् । णिदित्यनुवृत्तेरुपधावृद्धिः । गतिकारकयोरिति पूर्वपदप्रकृति स्वरत्वं चेति पूर्वपदप्रकृति स्वरः । उ. ४-२२६ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः