मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ४

संहिता

युवा॑ सु॒वासा॒ः परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।
तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यन्त॑ः ॥

पदपाठः

युवा॑ । सु॒ऽवासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ऊं॒ इति॑ । श्रेया॑न् । भ॒व॒ति॒ । जाय॑मानः ।
तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति॒ । सु॒ऽआ॒ध्यः॑ । मन॑सा । दे॒व॒ऽयन्तः॑ ॥

सायणभाष्यम्

यवा दृढाङ्गोऽष्टाश्र्यादिलक्षणलक्षित इत्यर्थः । सुवासाः शोभनेन वाससा रशनया युक्तः । परिवीतस्तया रशनया वेष्टितः । एवंविधो यूप आगात् । आगच्छति । स उ स एव यूपः श्रेयान् जायमानः सर्वेभ्यो वनस्पतिभ्य उत्कृष्टतया सम्पद्यमानो भवति । तमेवं विधं यूपं धीरासः प्राज्ञा मनसा देवयन्तो देवान् कामयमानाः स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः कवयः क्रान्तदर्शिनोऽध्वर्य्वादय उन्नयन्ति । उन्नतं कुर्वन्ति । एतस्मिन्नर्थे ब्राह्मणम् । युवासुवासाः परिवीत आगादित्युय्त्तमया परिदधाति प्राणो वै युवा सुवासाः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति । श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरसः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति । ऐ. ब्रा. २-२ ॥ इति युवा । यौतेः कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । उवजादेशः । नित्त्वादाद्युदात्तत्वम् । सुवासाः । वस आच्छादने । असुन्नित्यनुवृत्तौ वसेर्णिदित्यसुन्प्रत्ययः । णित्त्वादुपदावृद्धिः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । परिवीतः । व्येञ् संवरणे । कर्मणि क्तः । यजादित्वास्त्स्म्प्रसारणम् । गतिरनन्तर इति पूर्वपदप्रकृतिस्वरत्वम् । आगात् । इण् गतावित्यस्य लुङि इणो गा लुञीति गादेशः । गातिस्थेति सिचो लोपः । अडागमः । श्रेयान् । प्रशस्यस्य द्विवचनविभज्योपपद इतीयसुन्प्रत्ययः । तस्मिन्प्रशस्यस्य श्र इति श्रादेशः । गुणः । नित्त्वादाद्युदात्तत्वम् । एकादेश आद्युदात्तः । स्वाध्यः । ध्यै चिन्तायाम् । स्वाजोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यन्त इति क्विप् । दृशिग्रहणात्सम्प्रसारणम् । सम्प्रसाराणाच्चेति पूर्वरूपत्वम् । हल इति दीर्घः । जसि एरनेकाच इति यणादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वम् । देवयन्तः । सुप आत्मनः क्यजिति क्यच् । चित्त्वादन्तोदात्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः