मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् ५

संहिता

जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।
पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥

पदपाठः

जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । स॒ऽम॒र्ये । आ । वि॒दथे॑ । वर्ध॑मानः ।
पु॒नन्ति॑ । धीराः॑ । अ॒पसः॑ । म॒नी॒षा । दे॒व॒ऽयाः । विप्रः॑ । उत् । इ॒य॒र्ति॒ । वाच॑म् ॥

सायणभाष्यम्

जातः पृथिव्यां प्रथमुमुत्पन्नो यूपः समर्ये । मर्य इति मनुष्यनाम । तैः सहिते विदथे वर्धमानः । विदथ इति यज्ञनाम विदथः सवनमिति यज्ञ नामसु पाठात् । तस्मिन्यज्ञ आ वर्धमानो घृतान्जनरशनापरिव्ययणादिना सर्वतः शोभमानः सन् आह्नां सुदिनत्वे जायते । पशुनियोजनादिद्वारेण यज्ञ निर्वाहकतयाहानि सुदिनानि करोतीत्यर्थः । आपसः कर्मवन्तो धीराः सुप्रज्ञा आध्वर्य्वादयो मनिषा बुद्ध्या तं यूपं पुनन्ति । प्रक्षलनादिभिः शोधयन्ति । देवया देवानां यष्टा देवानां हवीषि प्रापयिता वा विप्रो मेधावी होता च वाचं यूपविषयां स्तुतिलक्षणां वाचमुदियर्ति । प्रेरयति । उच्चारयतीत्यर्थः । उक्तार्थे ब्राह्मणम् । जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एतज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तद्देवया विप्र उदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति । ऐ. ब्रा. २-२ ॥ सुदिनत्वे । सुदिनानां भावे इति तस्य भावस्त्वतलाविति त्वः । प्रत्ययस्वरः । समर्ये । मृङ् प्राणत्याग इत्यस्माच्छन्दसि निष्टर्क्येति क्यप्रत्ययान्तत्वेन निपातनाद्गुणः । समासस्येत्यन्तोदात्तत्वम् । पुनन्ति । पूञ् पवने । क्र्यादित्वाच्छ्ना । स्वादित्वाद्ध्रस्वः । प्रत्ययस्वरः । देवयाः । या प्रापणे । आतो मनिन्निति विच् प्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयर्ति । ऋ गतौ । जुहोत्यादिः । अभ्यासस्यार्तिपिपर्त्योश्चेतीत्वम् । अभ्यासस्यासवर्ण इतीयजादेशः । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः