मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ८, ऋक् १०

संहिता

शृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्त॒ः स्वर॑वः पृथि॒व्याम् ।
वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥

पदपाठः

शृङ्गा॑णिऽइव । इत् । शृ॒ङ्गिणा॑म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् ।
वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥

सायणभाष्यम्

स्वरवः स्वरमन्तश्चाषालवन्तः प्रतिमुक्तकंटकाः । एवं विधा य़ूपाः पृथिव्यां शृङ्गिणां महषादीनां शृङ्णाणीवेत् विषाणानिव सन्ददृश्रे । सम्यक् दृश्यन्त एव । वा अपि च विहवे । विविधं हूयन्ते हवींष्यत्रेति विहवो यज्ञः । तस्म्न्न्यज्ञे वाघद्भिरृत्विभिः । वाघतो वृक्तबर्हिष इत्यृत्विङ्नामसु पाठात् । श्रोषमाणास्तैः क्रियमाणं स्तुतिलक्षणं शब्दं शृण्वन्तः । तादृशा यूपाः पृतनाज्येषु । पृतनाज्यशब्दः सङ्रामवाची । अदौ पृतनाज्यमिति सङ्रामनामसु पठितत्वात् । पृतनाज्येषु सङ्रामेषु । वधस्थलेष्विति यावत् । अस्मान्यजमानानवन्तु । रक्षन्तु । शृङ्गाणि । शॄ हिंसायामित्यस्माच्छृणातेर्ह्रस्वश्च । उ. १-१२५ । इति गन् नुडागमो धातोर्ह्रस्वश्च । नित्स्वरः । ददृश्रे । छन्दसि लुङ्ल लुङ्लिट इति लङर्थे लिट् । इरयो र इतीरेचो रे त्यादेशः । निघातः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः