मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् १

संहिता

सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।
अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥

पदपाठः

सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥

सायणभाष्यम्

विश्वामित्र सौति । हे अग्ने सखायः सोमाज्यादिहविष्प्रदानेनोपकारकत्वान्मित्राणि मर्तसो मनुष्युआ ऋत्विजो वयमपां नपातमपां नप्तारं सुभगम् शोभनधनयुक्तं सुदीदितिं शोभनदीप्तिं सुप्रतूर्तिं शोभनप्रतरणं कर्मानुष्ठातृभिः सुखेन गन्तव्यमनेहसमुपद्रवरहितमेतादृशं देवं त्वामूतये रक्षणाय ववृमहे । वृणीमहे । सखाय । ख्या प्रकथने । समाने ख्यश्चोदात्त इति समान उपपदे डिदित्यनुवृत्तौ ख्यातेरिण् । तस्य डित्त्वाट्टिलोपः । तत्सन्नियोगेन यलोपः । ववृमहे । वृङ् सम्भकौ । छन्दसि लुङ्लिट इति वर्तमाने लिट् । क्रादित्वादिडभावः । निघातः । ऊतये । अवरक्षण इत्यस्य उदात्त इत्यनुवृत्तावूतियूतीत्यादिना क्तिनन्तत्वेन निपातनादन्तोदात्तः । अपाम् । ऊडिदमिति विभक्तेरुदात्तत्वम् । सुभगम् । अद्युदात्तं द्व्यच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । सुप्रतूर्तिम् । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः