मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ३

संहिता

अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।
प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥

पदपाठः

अति॑ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ॑ । ए॒व । सु॒ऽमनाः॑ । अ॒सि॒ ।
प्रऽप्र॑ । अ॒न्ये । यन्ति॑ । परि॑ । अ॒न्ये । आ॒स॒ते॒ । येषा॑म् । स॒ख्ये । असि॑ । श्रि॒तः ॥

सायणभाष्यम्

हे अग्ने तृष्टं स्तोतुस्तृष्णाभिलाषं तदुचितफलप्रदानेन सफलं कर्तुमतिववक्षिथ । अतिशयेन वोढुमिच्छसि । अथैव अथापि त्वं सुमना असि । सन्तुष्ट मनस्को वर्तसे । किञ्च । त्वं येषां षोडशानामृत्विजां सख्ये मैत्रे श्रितोऽसि वर्तसे तेषां मध्येऽन्येऽध्वर्युप्रभृतयो द्वादशर्त्विजः प्रयन्ति । प्रकर्षेण होतुं गच्छन्ति । अन्य उद्गातृ प्रभृतयश्चत्वारः पर्यासते । परित आसीना वर्तन्ते । ववक्षिथ । वह प्रापण इत्यस्य सनि रूपम् । अध्यासस्य सन्यत इतीत्वाभावश्छान्दसः । तसन्ताद्वर्तमाने लिट् । थल आर्थधातुकस्येड्वलादेरितीट् । कास्प्रत्ययादामित्याम् न भवति मन्त्रत्वात् । निघातः । प्रप्र । प्रसमुपोद इति द्विर्वचनम् । यन्ति । इण् गतावित्यस्य लटि रूपम् । एकान्याभ्यां समर्थाभ्यामित्यन्यशब्दयोगात्पूर्वस्य निघाताभावः । आसते । आस उपवेशने । उत्तरत्वान्निघातः । असि । आस भुवि । तासस्त्योर्लोप इति सकारलोपः । यद्वृत्तयोगान्न निहन्यते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः