मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ४

संहिता

ई॒यि॒वांस॒मति॒ स्रिध॒ः शश्व॑ती॒रति॑ स॒श्चतः॑ ।
अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥

पदपाठः

ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ ।
अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥

सायणभाष्यम्

हे अग्ने अदुहोऽद्रोग्धारो निचिरासो नितरां चिरासश्चिरन्तना विश्वेदेवाः स्रिधः शोषकाञ्छत्रून्बलेनातिक्रम्येयिवांसं गच्छन्तं शश्वतीर्बह्वीः सश्चतः सङ्गतिकारणीः सेनाश्चात्यतिक्रम्य गच्छन्तमप्सु श्रितं तिरोहितमत एव सिंहमिव हुहाप्रविष्टं सिंहमिव भीममीमेनं त्वामन्वविन्दन् । अनुगम्या लभन्त । रयिवांसम् । इण् गतावित्यस्य क्वसावुपेयिवाननाश्वाननूचानश्च । पा.३-२-१०९ । इति निपातितः । प्रत्ययस्वरः । स्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य वा क्विप् चेति क्विप् । धातु स्वरः । सश्चतः । षस्ज गतौ । जकारस्य व्यत्ययेन चकारः । लटः शत्रादेशः । प्रत्ययस्वरः । अविन्दन् । विद्लृ लाभ इत्यस्य लङ् रूपम् । निचिरासः । नितरां चिराः । आज्जसेरसुगित्यसुक् । समासस्वरः । आद्रुहः । द्रुह जिघांसायाम् । सम्पादादित्वाद्भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम् । श्रितम् । श्रिञ् सेवायामित्यस्य त्र्युकः कितीतीट् प्रतिषेधः । प्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः