मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ५

संहिता

स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् ।
ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥

पदपाठः

स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् ।
आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥

सायणभाष्यम्

मातरिश्वा वारुरित्थेत्थं त्मना स्वेच्छयाप्सु प्रवेशेन तिरोहितं निलीनं परि परितो मथितं मन्थनेन निष्पादितमेनमग्निं देवेभ्यः । तादर्थ्ये चतुर्थी । देवार्थं परावतो दूरदेशादानयत् । आनीतवान् । तत्र दृष्टान्तः । ससृवांसमिव । यथा स्वाच्छन्द्येन ससृवांसं सरन्तं गच्छन्तं पुत्रं पिता बलादानयति तद्वत् । ससृवांसमिव । सृ गतावित्यस्माल्लिट् । तस्य क्वसुः । इवेन विभक्त्यलोप इत्युक्तत्वात्प्रत्ययस्वरः । त्मना । आत्मन् शब्दस्य मन्त्रेष्वाङ्यादेरात्मन इत्याकार लोपः । इत्था । था हेतौ च छन्दसीति व्यत्ययेन थाप्रत्ययः । प्रत्ययस्वरः । एनम् । अन्वादेशे द्वितीयाटौःष्वेन इत्येनादेशः । अनुदात्तश्च । नयत् । णीञ् प्रापण इत्यस्य लङ् रूपम् । अडभावश्छान्दसः । मातरिश्वा । मातर्यन्तरिक्षेश्वसितीति श्वन्नुक्षन्नित्यादिना निपातितः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः