मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ६

संहिता

तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।
विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥

पदपाठः

तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।
विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥

सायणभाष्यम्

हे हव्यवाहन हव्यानां वोढर्हे अग्ने मर्ता मनुष्या अध्वर्युप्रभृतयस्तं तादृशमप्सु तिरोहितं त्वा त्वां देवेभ्यो यश्टव्यदेवतार्थमगृभ्णते । अगृह्णत । मनुष मनुष्याणां हितकारन्यविष्ठ्य युवतम हे अग्ने तव क्रत्वा तव कर्मणा महात्म्येन विश्वन्सर्वानस्माभिः क्रियमाणान्यज्ञान्यद्यस्मात्कारणादभिपासि । सर्वतः पालयसि तस्मात्त्वामगृभ्जतेति पुर्वत्रान्वयः । अगृभ्जत । ग्रह उपादाने क्र्यादित्वाच्छ्ना । ग्रहिज्यावयीति सम्प्रसारणम् । हृग्रहोर्भश्चन्दसीति हकारस्य भकारः । तिङ्ज तिङ् इति निघातः । हव्यवाहन । वह पापण इति धातोर्ञ्युडित्यनुवृत्तौ । हव्यहव्येऽनन्तः पादमिति त्र्युट् । उपधावृद्धिः । योरनादेशः । अपादादित्वादाष्टमिकमनुदात्तत्वम् । विश्वान् । विश प्रवेशन इत्यस्मादशिप्रुषिलटिकरणिकणिखटिविशिभ्यः क्वन्निति क्वन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । अभिपासि । पारक्ष्णे । अस्य धातो रक्षणार्थत्वान्न षिबादेशः । यच्छब्दयोगान्न निघातह् । धातुस्वरः । क्रत्वा । टा । जसादयश्चन्दसि विकल्प्यन्त इत्यत्र नादेशाभावह् । यणादेशः । प्रत्ययस्वरः । यविष्ठ्य । युवशब्दादतिशायने तमबिष्ठनावितीष्ठन् । स्थूलदूरयुवेति यणादि परं लुप्यते पुर्वस्य च गुणः । वस्वादित्वात्स्वार्थिको यप्रस्ययः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः