मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ७

संहिता

तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।
त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥

पदपाठः

तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ ।
त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥

सायणभाष्यम्

हे अग्ने तव सम्बन्धि तदिदं भद्रं शोभनं दंसनाग्निहोत्रादिकं कर्म पाकाय चित् । चिच्छब्दोऽप्यर्थे । पाकायेति कर्मणि चतुर्थी । पाकोऽर्भकः । तद्वदज्ञमपि यजमानं छदयति । स्वफलप्रदानेन पूजयति । पशुपुत्रादिभिः परिवृतं करोतीत्यर्थः । छदयतिशब्दोऽर्चतिकर्मा छन्दयति छदयतीति तन्नामसु पाठात् । यद्वा । पाकशब्दः प्रशस्यं वक्ति पाको वाम इति प्रशस्यनामसु पठितत्वात् । तद्भद्रं प्रशस्यं यजमानमभिमतफलप्रदादेन पूजयतीत्यर्थः । यद्यस्मात्कारणादपिशर्वरे शर्वरीमुखेऽग्निविहरणकाल एव समिद्धं दीप्यमानं त्वां पशवो द्विपदाश्चतुष्पदाश्चोभये पशवः समासते । सम्यगासते । पर्युपासत इत्यर्थः । तदिदं पश्चादिलक्षणं फलं यजमानाय प्रयच्छतीत्यर्थः । भद्रम् । भदि कल्याण कित्यस्माद्धातोरुपरि रक्प्रत्ययेन निपातनादन्तोदात्तत्वम् । पाकाय पा रक्षण इत्यस्मादिण्भीकापाशलीत्यादिना कन् । पायते रक्ष्यते राजादिनेति पाकः । नित्त्वादाद्युदात्तः । छदयति । छद आपवरणे । स्वार्थे णिच् । अदन्तत्वाद्वृद्ध्यभावः । निघातः । समासते । आस उपवेशने । अदादित्वाच्छपो लुक् । अनकारान्तत्वाङ् झुस्यादेशः । यद्योगादनिघातः । तिङ् चोदात्तवतीति गतेर्निघातः धातुस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः