मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ९, ऋक् ९

संहिता

त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।
औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥

पदपाठः

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।
औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

सायणभाष्यम्

त्रीणि शता त्रीणि शतानि त्री सहस्राणि त्रीणि सहस्राणि त्रिंशच्च नव चैकोनचत्वारिंशदधिकशतत्रयोपेतत्रिसहस्र संख्याका देवा इममग्निमसपर्यन् । अपूजयन् । किंच ते देवा घृतेरिममग्निमेक्षन् । आसिञ्चन् । तथास्मा अग्नये तदर्थं बर्हिरस्तृणन् । बर्हिषास्तरणं वेद्याच्छादनमकुर्वन् । आदिदनन्तरमेव ते देवास्तस्मिन्बर्हिष्येनमग्निं होतारं कृत्वा न्यसादयन्त उपावेशयन् । देव्यैः पूज्यमिमग्निं सपर्यतेति पूर्वेणात्वयः देवसंख्या च बृहदारण्यकेऽभिहिता । महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । कतमे ते त्रयस्त्रिंसह्दष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशौ । बृ. आ. ३-९ । इति शता । दशानां दशतां शभावस्तश्च प्रत्ययः । दश दशतः परिमाणमेषां शतानि । सुपां सुलुगित्यादिना सुपो डादेशः । प्रत्ययस्वरः । त्री । सुपां सुलुगिति पूर्वसवर्णदीर्घः । फिट् स्वरः । सहस्राणि । कर्दमादित्वान्मध्योदात्तः । त्रिंशत् । प्रत्ययस्वरः । नव । कनिन्नित्यनुवृत्तौ णु स्तुतावित्यस्माद्धातोर्णुदंशोर्नुदश्चेति कनिन् । गुणश्च । नित्त्वादाद्युदात्तः । असपर्यन् । लङ् रूपम् । निघातः । औक्षन् । उक्ष सेचने । आडजादीनामित्याडागमः । वृद्धिः । पादादित्वान्न निहन्यते । आगमस्वरः । अस्तृणन् । स्तृञ् आच्छादने । लङ् बहुवचने क्र्यादित्वाच्छ्ना । झेरन्तादेशह् । नित्यं ङुत इतीकारलोपः । संयोगान्तलोपः । श्नाभ्यस्तयोरात इत्याकारलोपः । लुङ्लिङ् लृङ्क्वडित्यडागमः । स चोदात्तः । आगमस्वरः । वक्येत्यनुवृत्तौ जादित्वान्निघाताभावः । बर्हिः । इसिरित्यनुवृत्तौ वृंहेर्नलोपश्चेतीसिः । तत्सन्नियोगेन नलोपः । प्रत्ययस्वरः । असादयन्त । षद्लृ विशरणगत्यवसादनेषु । अस्माद्धेतुमति चेति णिच् । उपधावृद्धिः । णिचश्चेत्यात्मनेपदम् । लङ् बहुवचने रूपम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः