त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नाम् ।
दे॒वं मर्ता॑स इन्धते॒ सम॑ध्व॒रे ॥
त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् ।
दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥
हे अग्ने मनीषिणो धीमन्तोऽध्वर्युप्रभृतयो मर्तासो मनुष्याश्चर्षणीनां प्रजानां सम्राजमधिपतिं देवं द्योतमानं तामध्वरे यज्ञे समिन्धते । सोमाज्यपयःप्रभृतिभिराहुतिभिः समग्दीपयन्ति । मनीषिणः । मनीषैषामस्तीति व्रीह्यादिभ्यश्चेति इनिः । यस्येति चेत्यवर्णलोपः । प्रत्ययस्वरः । सम्राजम् । राजृदीप्तौ । संपूर्वादस्माद्धातोः सत्सूद्विषेति क्विप् । क्विलोपः । समो मकारस्य मोऽनुस्वार इत्यनुस्वारे प्राप्ते मो राजि समः क्वाविति समो मकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । चर्षणीनाम् । नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । इन्धते । ञ इन्धी दीप्तौ । अस्माद्धातोर्हेतुमति चेति णिच् । लटि झस्यात्मपेपदेष्वनत इत्यदादेशः । छन्दस्युभयथेति झस्यार्धधातुकत्वाण्णेरनिटीति णिलोपः । निघातः । ॥ १ ॥