मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् २

संहिता

त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।
गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥

पदपाठः

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ ।
गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥

सायणभाष्यम्

हे अग्नेऽध्वर्व्यादयो यज्ञेष्टग्निष्टोमादिषु त्वां होतारमृत्विजं होतृनामकमृत्विजमीळते । स्तुवन्ति । तादृशस्त्वमृतस्य सत्यस्य यज्ञस्य गोपा गोपायिता सन् स्वे दमे स्वकीये गृहे यज्ञशालायां दीदिहि । दीप्यस्य । दीदिहि । दिवु क्रीडादौ । यङ् लुक् । लोट् । तुजादित्वादभ्यासदीर्घत्वम् । संज्ञापूर्वको विधिरनित्य इत्यभ्यासस्य गुणाभावे ल्पोप् व्योर्वलीति वलोपः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः