मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ३

संहिता

स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।
सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥

पदपाठः

सः । घ॒ । यः । ते॒ । ददा॑शति । स॒मिधा॑ । जा॒तऽवे॑दसे ।
सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥

सायणभाष्यम्

हे अग्ने यो यजमानो जातवेदसे जातप्रज्ञाय ते त्य्भ्यं समिधा समिन्धनकारीण्याज्यपुरोडाशादि हवींषि ददाशति ददाति स घ स खलु सुवीर्यं शोभनसामर्थ्योपेतं पुत्रं धत्ते । धारयति । अपि च सः स एव पुष्यति । पशुपुत्रादिभिः समृद्धो भवति ॥ घ । चादयोऽनुदात्ता इत्यनुदातः । ददाशति । दातृ दान इत्यस्माद्धातोः कर्तरि तप् । तिष् । द्विर्वचनं छान्दसम् । यद्वृत्तयोगादनिघातः । अभ्यस्तानामादिरित्युदात्तः समिधा । ञि इन्धी दीप्तौ । अस्मात् क्विप् चेति क्विप् । उपधालोपः । सुपां सुलिगिति शसो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जातवेदसे । बहुव्रीहौ प्रकृत्या पूर्वपदमिति प्रकृतिस्वरत्वम् । सुवीर्यम् । वीरवीरौ चेत्युत्तरपदाद्युदात्तत्वम् । पुष्यति । पुश पुष्टौ । अस्मात् श्यन् । ङत्त्वाद्गुणाभावः । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः