मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ४

संहिता

स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।
अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥

पदपाठः

सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।
अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥

सायणभाष्यम्

अध्वराणां यज्ञानां केतुः प्रज्ञापकः सोऽग्निः सप्त सप्तभिर्होतृभिर्वषट्कर्तृभिरञ्जानः सोमाज्याहुतिभिरज्यमानः सन् हविष्मते यजमानार्थं देवेभिर्यष्टव्यदेवैः सुहागमत् । आगच्छतु । गमत् । लोडर्थे छन्दसि लुङ्लङ्लिट इति लुङ् । लृदित्त्वादङ् । बहुलं छन्दस्यमाङ्योग इत्यडभावः । निघातः । अन्जानः । अञ्जू व्यक्तिम्रक्षणगतिषु । व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तत्वम् । हविष्मते । जुहोतेरर्चिशुचीत्यादिना इसिप्रत्ययान्तो हविःशब्दोऽन्तोदात्तः । स्वरविधौ व्यन्जनमविद्यमानवदिति परिभाषानाश्रयणान्मतुप उदात्तत्वाभावः । इसिप्रत्ययस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः