मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १०, ऋक् ९

संहिता

तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥

पदपाठः

तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥

सायणभाष्यम्

हे अग्ने विप्राः स्तुइतीनां प्रेरका जागृवांसोऽग्निहोत्रादिकर्मण्यप्रमत्ततया प्र्बुद्धा विपन्यवः । विपन्युतब्धो मेधाविनमाचष्टे । विपश्चिद्विपन्युरिति तन्नामसु पाठात् । विपन्यवो मेधाविनः स्तोतारो हव्यवाहं हव्यानां वोढारममर्त्यं मरणधर्मरहितं सहोवृधं सहसा मथनरूपेण बलेन वर्धमानम् तादृशं त्वा त्वा समिन्धते । सोमाद्याहुतिभिः सम्यग्दीपयन्ति । विप्राः । टुवप बीजसन्ताने । अस्माद्धातोरृज्रेन्द्राग्रवज्रविप्रेति रन्प्रत्ययेत्वयोर्निपातनादाद्युदात्तत्वम् । विपन्यवः । विविधं पनं पननं स्तुतिं यातीति विपन्युः । मृगय्वादयश्चेति कुः । अकारलोपश्छान्दसः । प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये । अस्माल्लिट् । तस्य क्वसुः । उगिदजामिति नुम् । द्विर्वचनाभावश्छान्दसः । वस्वेकाअजाद्घसामिति नियमादिडभावः । जाग्रोऽविचिण्णल् ङित्सु । पा. २-३-८५ । इति गुणो न भवति तत्र विरित्यत्र क्वसोरपि गृहीतत्वात् । प्रत्ययस्वरः । इन्धते । ङि इन्धी दीप्तौ । अन्तर्भावितण्यर्थोऽयम् । निघातम् । हव्यवाहम् । वह प्रापणे । वहश्चेति ण्विः । उपधावृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सहोवृधम् । वृधु वर्धने । क्विप् चेति क्विप् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः