मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् २

संहिता

स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
अ॒ग्निर्धि॒या समृ॑ण्वति ॥

पदपाठः

सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।
अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥

सायणभाष्यम्

स हव्यवाट् हविषो वोढामर्त्यो मरणधर्मरहित उशिक् हविः कामयमानो दूतो देवानां दूतश्चा नसे हविर्लक्षणायान्नाय हितो निहितः । यद्वा चनोहितः । चनोऽऽन्न हविर्लक्षणं हितमस्येति चनोहितः । स तथाविधोऽग्निर्धिया प्रज्ञया समृण्वति । सङ्गच्छते । कर्मविषयप्रज्ञान्वितोऽग्निरस्मानपि तादुक्प्रज्ञान्वितान्करोत्वित्याशास्ते ॥ हव्यवाट् । वह प्रापणे । वहश्चेति ण्विः । धत्व जत्त्व चर्त्वानि । कृदुत्तरपदप्रकृतिस्वरत्वम् । उशिक् । वश कान्तौ । इजिरित्यनुवृत्तौ वशेः । किच्चेतीजिप्रत्ययः । तस्य कित्त्वात् ग्रहिज्येति सम्प्रसारणम् । प्रत्ययस्वरः । चनो हितः । चनः शब्दश्चायतेरन्ने ह्रस्वश्चेत्यनुनन्तु । चकारान्नुडागमः । तस्मिन्यलोपः । नित्त्वादाद्युदात्तः । पुनश्चनसोश्छन्दसि गतिसंज्ञा वक्तव्या । पा. १-४-६०-२ । इति गति सम्ज्ञायां गतिरनन्तर इति प्रकृति स्वरत्वम् । बहुव्रिहौ तु पूर्वपदप्रकृतिस्वरत्वम् । धिया । सावेकाच इति विभक्तेरुदात्तत्वम् । ऋण्वति । ऋणु गतौ । लेट तनादित्वादु प्रत्ययः । लेटोऽडाटावित्यडागमः । ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः