मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ११, ऋक् ८

संहिता

परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।
विप्रा॑सो जा॒तवे॑दसः ॥

पदपाठः

परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः ।
विप्रा॑सः । जा॒तऽवे॑दसः ॥

सायणभाष्यम्

जातवेदसो जातप्रज्ञा विप्रासो मेधाविनो होत्रादयो वयमग्नेस्तव सम्बन्धिभिर्मन्मभिर्मननीयैः स्तोमर्विश्वानि सर्वाणि सुधिता सुहितानि सुष्ठुहितान्यभिलषितानि वसूनि प्रयश्याम । सर्वतः प्राप्नुयाम । जातवेदस इत्यग्नेर्वाविशेषणम् । जातानि सर्वाणिवेत्तीति जातवेदाः सर्वज्ञ इत्यर्थः । एतादृशं जातवेदस्त्व्मग्नेरेवोचितमिति तद्विशेषणत्वं युक्तं ॥ सुधिता । डुधाञ् धारणपोषणयोरित्यसाद्भातोर्निष्ठायां छन्दसीत्यनुवृत्तौ सुधितवसुधितेत्यादिना निपातितः । शेश्छन्दसि बहुलमिति शेर्लुक् । गतिरनन्तर इति गतेः । प्रकृतिस्वरत्वम् । अश्याम अशूव्याप्तौ । बहुलं छन्दसीति श्नुप्रत्ययस्य लुक् । व्यत्ययेन परस्मैपदम् । यासुट् परस्मैपदेषूदात्त इति यासुत् । लिङ्ः सलोप इति सलोपः । अदन्तत्वाभावादियादेशो न भवति । मसः सकारस्य नित्यं ङित इति लोपः । निघातः । मन्मभिः । मनु अवबोधने । अन्येभ्योऽपि दृश्यन्त इति मनिन् । नित्स्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०