मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १२, ऋक् ८

संहिता

इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।
यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ ।
यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥

सायणभाष्यम्

हे इन्द्राग्नी वां युवयोस्तविषाणि बलानि प्रयाम्स्यन्नानि च सधस्थानि परस्परमवियुज्य वर्तन्ते । तथात्पूर्यं वृष्टिद्वारा प्रेरकत्वं युवोर्युवयोरेव हितं निहितं वर्तते । तस्मात्सोमपानप्रभृतिषु सर्वकर्मस्विन्द्राग्न्योः सहैव वर्तमानत्वमिति भावः । वां । षष्ठीद्विवचने वामित्यादेशः । सधस्थानि । ष्ठा गतिनिवृत्तौ । अतोऽनुपसर्गे कः । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः । ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२