मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् २

संहिता

ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तयः॑ ।
ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥

पदपाठः

ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।
ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥

सायणभाष्यम्

यस्य पूर्वमन्त्रे प्रतिपादितस्याग्ने रोदसी इमे द्यावापृथिवौ वते भवतः । अग्नेः प्रकाशकत्वेन तदधीनप्रकाशके भवत इत्यर्थः । किञ्च ऊतयो यजमानस्य फलप्रदानेन रक्षितारो देवा दक्षं यस्याग्नेर्बलं सञ्चते सेवन्ते । सचन्ते सेवन्ते । नि. ७-२३ । इति यास्कः । अग्नेर्यजमानदत्तहविषां प्रदातृत्वेन तदधीना इत्यर्थः । एवंभूतः सोऽग्निरृतावा सत्यकर्मा । सत्यसंकल्प इत्यर्थः । किञ्च हविष्मन्तः संभृतहविष्का यजमाना हविर्वहनार्थं तमेवाग्निमीळते । स्तुति रूपाभिर्वाग्भिः पूजयन्ति । किञ्च सनिष्यन्तो धनादिलाभमिच्छन्तस्तमवसे रक्षणाय तमेवाग्निमाश्रयन्ते ॥ ऋतावा । ऋतशब्धात्तदस्यास्तीति छन्दसीवनिपौ व्यक्तव्याविति वनिप् । अन्येषामपि दृश्यत इति दीर्घः । वनिपः पित्त्वादनुदात्तत्वे प्रातिपदिकस्वरः । सचन्ते । सच समवाये । व्यत्ययेनात्मनेपदम् । यद्वृत्तयोगादनिघातः । सनिष्यन्तः । सनिर्लाभः । तमिच्छन्तः । सुप आत्मनः क्यच् । सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्य इति क्यच् परतः सुगागमः । क्यचः स्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३