मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् ३

संहिता

स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।
अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥

पदपाठः

सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः ।
अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥

सायणभाष्यम्

विप्रो मेधावी कर्माभिज्ञः सोऽग्निरेषां कालापराधेन हविर्निर्वापं कृतवतां यजमानानां यथोक्त कर्मप्रदर्शनेन तत्र प्रवर्तकः । अथ किञ्च यज्ञानां ज्योतिष्टोमादीनां सोऽग्निर्नियन्ता फलप्रदानेन नियामहः । हि प्रसिद्धौ अत एव सर्वस्य नियन्ता खलु । किञ्च सोऽग्निर्दाता ज्योतिष्टोमादिकर्मफलदाता मघं महनीयं धनम् । मघं रेक्ष्ण इति तन्नामसु पाठात् । तद्धनं वनिता प्रयच्छंश्च भवति । वो युष्मत्सम्बन्धिनं तादृशमग्निं हे ऋत्विजो यूयं दुवस्यत आहुतिप्रदानेन परिचरत । दुवस्यतिः परिचरण कर्मा नमस्यति दुवस्यतीति तन्नामसु पाठात् ॥ यन्ता । यम उपरम इत्यस्य तृचि रूपम् । ऋदुशनसित्यादिना अनटादेशः । चित्स्वरः । अथा । निपातस्येति दीर्घः । दुवस्यत । दुवः परिचरणम् । तदिच्छन्तः । सुपः क्यच् । तदन्तस्य धातोर्लोटि रूपम् । दाता । डुदाञ् दाने । ताच्छीलकस्तृन् । नित्त्वादाद्युदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३