मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् ४

संहिता

स न॒ः शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।
यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥

पदपाठः

सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा ।
यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥

सायणभाष्यम्

सोऽगिर्नो हविष्प्रदातृभ्योऽस्मभ्यं शन्तमा पशुपुत्रादिसमृद्ध्यातिशयेन सुखकराणि । शर्मशब्दो गृहवाची

चाया शर्म वर्मेति तन्नामसु पाठात् । तथाविधानि गृहाणि वीतये सम्भजनायाग्निहोत्रादिकर्मप्राप्त्यर्थं यच्छतु । ददातु । यतो यस्मादग्नेः सकाशात् प्रुष्णवत्समृद्धिमद्दानभोगादिना व्यये सत्यप्यतिशयेन वर्धमानं दिवि द्युलोके क्षितिभ्यो भूलोकादप्स्वन्तरिक्षे च समुत्पन्नं वसु तत्तल्लोके असाधारण्येन वर्तमानं धनमा समन्तादुपनति । यसोऽग्नेः प्रसादात् त्रिषु लोकेषु विद्यमानं धमनस्मानागच्छति सोऽग्निरिति पूर्वेणान्वयः । वीतये । वी गतिकान्त्यादिषु । मन्त्रे वृषेषपचेत्यादिनाक्तिन् । उदात्तत्वेन निपातनादुदात्तः । यच्छतु । यम उपरमे । इषुगमियमां छ इति मकारस्य छः । प्रुष्णवत् । प्रुष स्नेहसेचनपूरणेषु । अस्मादौणादिको नक् प्रत्ययः । तदस्यास्तीति मतुप् । तस्योदात्तताभावश्छान्दसः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३