मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् ६

संहिता

उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।
शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥

पदपाठः

उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः ।
शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥

सायणभाष्यम्

उत अपि च हे अग्ने नो यज्ञकारिणोऽस्मान् ब्रह्मन् ब्रह्मण्यस्माभिः क्रियमाणे स्रोत्रेऽविषः । स्तोत्रविषयन्यूनातिरेकदोषो यथा नभवति तथा पालय किञ्च देवहूतमो देवानामाह्वातृतमस्त्वमुक्थेष्वस्माभिः क्रियमाणेष्वाज्यप्रौगादिशस्त्रेष्वविषः । गोपाय । किञ्च मरुद्वृधो मरुद्भिर्वर्धमानः सहस्रसातमः सहस्रसंख्याकस्य धनस्यातिशयेन दाता त्वं नोऽस्माकं शं ऐहिकमामुष्मिकं च सुखं शोच । दीपय । वर्धयेत्यर्थः । आविषः । अव रक्षणादिष्वित्यस्माल्लेट् सिब्बहुलमिति सिप् । अस्यार्धधातुक्त्वादिट् । इतश्च लोप इति सिप इकारलोपः । लेटोऽडाटावित्यडागमः । निघातः । उक्थेषु । वच परिभाषणे । अस्मात्कर्मणि पतॄ तुदिवचिरिचीत्यादिना थक् । कित्त्वात्संप्रसारणम् । प्रत्ययस्वरः । देवहूतमः । ह्वयतेः क्विप् । बहुलं छन्दसीति सम्प्रसारणपरूपत्वे । हल इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शोच । शुच दीप्तौ । अयमन्तर्भावितण्यर्थः । निघातः । मरुद्वृधः । वृधु वर्धने । इगुपधलक्षणः कः । मरुद्वृधादित्वात्पूर्व्पदांतोदात्तत्वम् । सहस्रसातमः । षणु दाने । अस्य जनसखनक्रमगतो विडिति विट् । विड्वनोरनुनासिकस्येत्याकारः । कृदुत्तरपदप्रकृतिस्वरह् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३