मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १३, ऋक् ७

संहिता

नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।
द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥

पदपाठः

नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ ।
द्यु॒ऽमत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥

सायणभाष्यम्

अस्मिन् सूक्ते स्तूयमान हे अग्ने सहस्रवत्सहस्रसंख्योपेतं तोकवत्पुत्रपौत्रादिसहितं पुष्टिमत्पोषकृत् । अनेन शरीरस्य क्षीरादिद्वारा बलारोग्यप्रदं गवादिकमुपलक्ष्यते । द्युमत् दीप्तिमत् । अनेन रत्नकनकादिकं परिगृह्यते । सुवीर्यं शोभनसामर्थ्योपेतं तत्तत्कार्येषु व्यवहारहोग्यं वर्षिष्ठमतिशयेन वृद्धं प्रहूतमत एवानुपक्षितं व्यये क्रियमाणेऽप्यनुपक्षीणम् । एवंभूतं वसु रत्न कनकपश्वादि लक्षणं धनं नोऽस्मभ्यं नु क्षिप्रमविलम्बन रास्व । दत्स्व ॥ नू नः । ऋचि तनुघमक्ष्विति दीर्घः । रस्व । रा दाने । आस्य लोटि ॠपाम् । व्यत्ययेनात्मनेपदम् । अदादित्वाच्छ्पोलुक् । निघातः । सहस्रवत् । मादुपधाया इति मतुपो वत्वम् । कर्दमादित्वान्मध्योदात्तः सहस्रशब्दः । पुष्टिमत् । पुष पुष्टौ । अस्मात् क्तिच् । प्रत्ययस्वरेणान्तोदात्तः । ह्रस्वनुड्भ्यामिति मतुप उदात्तत्वम् । वर्षिष्ठम् । प्रियस्थिरेत्यादिना वृद्धस्य वर्षि इत्यादेशः । नित्स्वरः । अनुपक्षितः । क्षि क्षय इत्यस्य दीर्घाभावान्निष्ठानत्वं न भवति । तत्पुरुषत्वादव्ययपूर्वपदप्रकृतिस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३