मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १४, ऋक् ३

संहिता

द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।
यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥

पदपाठः

द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ ।
यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥

सायणभाष्यम्

हे अग्ने वाजन्ती वाजमन्नं कुर्वाणे उषसा उषासानक्ते अहोरात्रौ ते त्वां द्रवताम् । अभिगच्छताम् । त्वमपि वातस्य वायोः पथ्याभिर्मार्गैरच्छ तावहोरात्रौ शीघ्रमभिगच्छ । यद्यस्मात्कारणादहोरात्राग्न्योः परस्पराभिर्मार्गैरच्छ तावहोरात्रौ शीघ्रमभिगच्छ । यद्यस्मात्कारणादहोरात्राग्न्यो परस्पराभिगमनेनान्योन्यसम्बन्धस्तस्मादहोरात्रयोः सायंप्रातः कालयोः पूर्व्यं पुरातनं त्वामृत्विजो हविर्भिराज्यादिभिः सीं सर्वतोञ्जन्ति । सिञ्चन्ति । किञ्च बन्धुरेव । यथा कूवरस्थानं परस्परसम्सक्तेषाद्वयोपेतं तद्वत्सम्सक्तौ तावहोरात्रौ दुरोणेऽस्माकं गृहेऽग्निहोत्रादिकर्मसिद्ध्यर्थमा आवृत्य पुनः पुनरावर्तमानौ सन्तौ तस्थतुः । तिष्ठां ॥ द्रवताम् । द्रु गतावित्यस्य लोट् रूपम् । पथ्याभिः । पथिषु साधव इत्यर्थे तत्र साधुः । पा.४-४-९८ । इति यत् । नस्तद्धित इति टिलोपः । तित्स्वरित इति स्वरितः तस्थतुः । तिष्ठतेर्लिट्युसि रूपम् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४