मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १५, ऋक् १

संहिता

वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी॑वाः ।
सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी॑तौ ॥

पदपाठः

वि । पाज॑सा । पृ॒थुना॑ । शोशु॑चानः । बाध॑स्व । द्वि॒षः । र॒क्षसः॑ । अमी॑वाः ।
सु॒ऽशर्म॑णः । बृ॒ह॒तः । शर्म॑णि । स्या॒म् । अ॒ग्नेः । अ॒हम् । सु॒ऽहव॑स्य । प्रऽनी॑तौ ॥

सायणभाष्यम्

उत्कीलः स्तौति । हे अग्ने पृथुना विस्तीर्णेन पाजसा तेजसा शोशुचानोऽत्यर्थं दीप्यमानस्त्वं द्विषः कर्मानुष्ठानविघ्नकारिणः शत्रून् विबाधस्व । विशेषेण नाशय । तथामीवा रोगाराहित्येन सामर्थ्योपेतानि रक्षसः । उभयत्र सुब्व्यत्ययः । तानि रक्षांसि बाधस्य । कर्मविघ्नकारीणि तान्यपनुदस्व । यद्वामीवा आभिमुख्येनागमनपरागमनपराः पिशाचिकाश्च बाधस्व । सुशर्मणः स्वर्गादिलक्षणशोभनसुखहेतोर्बृहतो मरुतः शत्रुविजयेन प्राप्तमहिम्नः सुहवस्य सुष्ठ्वाह्वानोपेतस्याग्नेः शर्मण्यस्माकं सुख हेतौ प्रणीतावुत्तरवेद्यादिस्थानेषु प्रणयने । प्रकर्षेण नयनं तत्र तत्रानीय प्रक्षेपः । एवं भूते तव प्रणयनेऽहं स्याम् । अग्नि प्रणयनपूर्वके क्रत्वनुष्ठाने भवेयं ॥ पाजसा । पा रक्षणे । असुन्नित्यनुवृत्तौ पातेर्बले जुट् चेत्यसुन् । जुडागमः । नित्त्वादाद्युदात्तः । पृथुना । प्रथप्रख्याने । उदित्यनुवृत्तौ प्रथिम्रदिभ्रस्जां सम्प्रसारणमित्युप्रत्ययः । तत्सन्नियोगेन सम्प्रसारणम् । प्रत्ययस्वरः । शोशुचानः । शुच दीप्तावित्यस्य यङ् लुकि ग्तुणो यङ् लुकोरित्यभ्यासस्य गुणः । व्यत्ययेन शानच् । चर्करीतस्यादादिवद्भावाच्छपो लुक् । चित्त्वादन्तोदात्तत्वे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । बाधस्व । ब्धृ लोडन इत्यस्य लोटि रूपम् । पादादित्वान्निघाताभावः । सुकर्मणः । शॄ हिंसायाम् । दुःखं शृणातीत्यौणादिको मनिन् । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वम् । स्याम् । अस भुवीत्यस्य लिङ् यासुट् परस्मै पदेष्वित्यादिना यासुट् । लिङः सलोप इति सलोपः । यासुटो ङित्त्वात् श्नसोरल्लोपः । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५